Follow blog on Facebook

Saturday, May 12, 2018

सूर्य अथर्वशीर्ष - Surya Atharvasheersha

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

शान्तिपाठ

ॐ भद्रं कर्णेभि शृणुयाम देवा:।

भद्रं पश्येम्  अक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।

व्यशेम देवहितं यदायु:।1।


ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।

स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।

स्वस्ति नो बृहस्पति: दधातु ।2।


ॐ शांति:। शांति:।। शांति:।।।

अथ सूर्य अथर्व आङ्गिरसं व्याख्या स्यामः

ब्रह्मा ऋषिः

आदित्यो देवता

गायत्री छन्दः

हंसात् अग्निनारायण युक्तं बीजं

हृल्लेखा शक्तिः

द्विपद आदि सर्ग सयुक्त कीलकं

धर्म अर्थ काम मोक्ष इषु जपे विनियोगः

षट् स्वर आरूढ बीजेन षड् अङ्गं रक्त अम्बुज संस्थितं

सप्त अश्व रथिनं  हिरण्यवर्ण चतुर्भुजं पद्म द्वय अभय वरद हस्तं

कालचक्र प्रणेतारं च श्री सूर्यनारायणं य एवं वेद स वै ब्राह्मणः

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं

ॐ तत् सवितुः वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्

परोरज सेसावदोम्

ॐ आपः ज्योति रसो अमृतं ब्रह्म भूः भुवः स्वः ॐ

सूर्य आत्मा जगतः तु स्थः च

सूर्यात् वै खल्विमानि भूतानि जायन्ते

सूर्यात् यज्ञाः पर्जन्यः अन्नः आत्मा

नमस्ते आदित्याय

त्वं एव केवलं कर्ता असि

त्वं एव प्रत्यक्षं विष्णुः असि

त्वं एवं प्रत्यक्षं ब्रह्मा असि

त्वं एव प्रत्यक्षं रुद्र असि

त्वं एव प्रत्यक्षं ऋक् असि

त्वं एव प्रत्यक्षं यजुः असि

त्वं एव प्रत्यक्षं साम असि

त्वं एव प्रत्यक्षं अथर्व असि

त्वं एव सर्वं छन्द असि

आदितयाद् वायुः जायते

आदित्याद् भूमिः जायते

आदित्याद् आपः जायन्ते

आदित्याद् ज्योतिः जायते

आदित्याद् व्योम दिशो जायन्ते

आदित्याद् वेदा जायन्ते

आदित्याद् देवा जायन्ते

आदित्यो वा एष एतन् मण्डलं तपति

असाव आदित्यो ब्रह्म

आदित्यो अन्तःकरण मनो बुद्धि चित्त अहंकारः

आदित्यो वै व्यान समान उदान अपान प्राणः

आदित्यो वै श्रोत्र वाक् चक्षुः रसना नासाः

आदित्यो वै वाक् पाणि पाद उपस्थ पायुनि

आदित्यो वै शब्द स्पर्श रूप रस गन्धाः

आदित्यो वै वचन आदान गमन आनन्द विसर्गः

आनन्द मयो ज्ञानमयो विज्ञानमयो आदित्यः

नमो मित्रास भानवे मृत्योः मा पाहि भ्राजिष्णवे विश्व हेतवे नमः

सूर्यो नो दिवः पातु वातो अन्तरिक्षात्

अग्निः न पार्थिवेभ्यः

सूर्यात् भवन्ति भूतानि

सूर्येण पालितानि तु

सूर्ये लयं प्राप्नुवन्ति

यः सूर्यः सोऽहं एव च

चक्षुः नो देवः सविता

चक्षुः न उत पर्वतः

चक्षुः धाता दधातु नः

आदित्याय विद्महे सहस्त्र कराय धीमहि तन्नो सूर्यः प्रचोदयात्

सविता पश्चात् तात

सविता पुरः तात

सविता उत्तरात् तात

सविता अधरात् तात

सविता नः सुवतु सर्व तातिम्

सविता नो रासतां दीर्घमायुः

ॐ इति एक अक्षरं ब्रह्म

घृणिः इति द्वे अक्षरे

सूर्य इति अक्षर द्वयं

आदित्य इति त्रीण्य अक्षराणि

एतद वै सुर्यस्य अष्टाक्षरं मनुं


फलश्रुति

यः सदा हरहः जपति

सो ब्रह्मण्यो ब्राह्मणो भवति

सुर्याभिमुखं जप्त्वा महाव्याधि भयात् प्रमुच्यते

अलक्ष्मीः नश्यति

अभक्ष्य भक्षणात् पूतो भवति

अपेय पानात् पूतो भवति

अगम्य गमनात् पूतो भवति

व्रात्य संभाषणात् पूतो भवति

असत् संभाषणात् पूतो भवति

मध्यान्हे सुर्याभिमुखः पठेत्

सद्यः पन्च महापापात् प्रमुच्यते

सैषा सावित्री विद्यां न किंचित् अपि कस्मै चित् प्रशन्सयेत

य एतां महाभागः प्रातः पठति स भाग्यवान् जायते

पशुं विन्दति

वेदार्थं लभते

त्रिकालं जप्त्वा क्रतु शत फलं प्राप्नोति

यो हस्त आदित्ये जपति स महामृत्युं तरति स महामृत्युं तरति

य एवं वेद

इति उपनिषद

ॐ भद्रं कर्णेभि शृणुयाम देवा:।

भद्रं पश्येम्  अक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।

व्यशेम देवहितं यदायु:।1।


ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।

स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।

स्वस्ति नो बृहस्पति: दधातु ।2।


ॐ शांति:। शांति:।। शांति:।।।


PROCEED TO PURUSHA-SUKTA ABHISHEKA ON VISHNU

2 comments:

  1. Please publish all the other four Atharvshirsh in the same format i.e. the sanskrit words to be broken in individual words 🙏

    ReplyDelete
  2. One mistake सहस्र किरणाय् धीमहि will be there

    ReplyDelete