Saturday, May 12, 2018

श्री सूक्तं Shri Suktam

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.




हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम्

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मी मनप गामिनीम्

यस्यां हिरण्यं विन्देयं गाम् अश्वं पुरुषानहम्

अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम्

श्रियं देवीम् उपह्वये श्रीः मा देवीम् जुषतां

कां सोस्मितां हिरण्य प्राकाराम्  आर्द्राम्  ज्वलन्तीं तृप्तां तर्पयन्तीम्

पद्मे स्थितां पद्मवर्णां तामिहो पह्वये श्रियम्

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टाम् उदाराम्

तां पद्मिनीमीं शरणम् अहं प्रपद्ये अलक्ष्मीः मे नश्यतां त्वां वृणे

आदित्यवर्णे तपसो अधिजातो वनस्पतिः तव वृक्षोऽथ बिल्वः

तस्य फलानि तपसा नुदन्तु माया अन्तरायाः च बाह्या अलक्ष्मीः

उपैतु मां देवसखः कीर्तिः च मणिना सह

प्रादुः भुतोस्मि  राष्ट्रेऽस्मिन् कीर्तिम् ऋद्धिं ददातु मे

क्षुत् पिपासा अमलां ज्येष्ठाम् अलक्ष्मीं नाशयाम अहं

अभूतिम् समृद्धिं च सर्वां निर्णुद मे गृहात्

गंधद्वारां दुराधर्षाम् नित्यपुष्टां करीषिणीम्

ईश्वरीम्  सर्वभूतानां तामिहो पह्वये श्रियम्

मनसः काममाकूतिं वाचः सत्यमशीमहि

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः

कर्दमेन प्रजाभूता मयि सम्भव कर्दम

श्रियं वासय मे कुले मातरं पद्ममालिनीम्

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे

नि च देवीं मातरं श्रियं वासय मे कुले

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेम मालिनीम्

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्म मालिनीम्

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मीमनप गामिनीम्

यस्यां हिरण्यं प्रभूतं गावो दास्यो श्वान विन्देयं पुरुषानहम्

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम्

सूक्तं पंचदश अर्चं च श्रीकामः सततं जपेत् ॥ १६॥

           
लक्ष्मी सूक्त
     
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे

त्वं मां भजसि पद्माक्षी येन सौख्यं लभाम्यहम्

अश्वदायी गोदायी धनदायी महाधने

धनं मे जुषतां देवि सर्वकामांश्च देहि मे

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्

प्रजानां भवसि माता आयुष्मन्तं करोतु माम्

धनम् अग्निः धनं वायुः धनं सूर्यो धनं वसुः

धनं इन्द्रो बृहस्पतिः वरुणं धनं अश्विनः  ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा

सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥

पद्मानने पद्म विपद्मपात्रे पद्मप्रिये पद्मदलायताक्षि ।

विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

सरसिजनिलये सरोजहस्ते

धवलतरांशुक गन्धमाल्यशोभे

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरिप्रसीद मह्यम्

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्

विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम्

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।

तन्नो लक्ष्मीः प्रचोदयात् ॥



फलश्रुति

आनन्दः कर्दमः श्री दः चिक्लीत इति विश्रुताः

ऋषयः श्रियः पुत्राः च श्रीः देवीः देवता मताः

ऋण रोग आदि दारिद्र्य पाप क्षुद्र अपमृत्युव

भय शोक मनः ताप नश्यन्तु मम सर्वदा ॥

श्री वर्चस्वं आयुष्यं आरोग्यं अविधात् पवमानं महीयते

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥


      ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

PROCEED TO REMAINDER OF DEVATA POOJA

सूर्य अथर्वशीर्ष - Surya Atharvasheersha

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

शान्तिपाठ

ॐ भद्रं कर्णेभि शृणुयाम देवा:।

भद्रं पश्येम्  अक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।

व्यशेम देवहितं यदायु:।1।


ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।

स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।

स्वस्ति नो बृहस्पति: दधातु ।2।


ॐ शांति:। शांति:।। शांति:।।।

अथ सूर्य अथर्व आङ्गिरसं व्याख्या स्यामः

ब्रह्मा ऋषिः

आदित्यो देवता

गायत्री छन्दः

हंसात् अग्निनारायण युक्तं बीजं

हृल्लेखा शक्तिः

द्विपद आदि सर्ग सयुक्त कीलकं

धर्म अर्थ काम मोक्ष इषु जपे विनियोगः

षट् स्वर आरूढ बीजेन षड् अङ्गं रक्त अम्बुज संस्थितं

सप्त अश्व रथिनं  हिरण्यवर्ण चतुर्भुजं पद्म द्वय अभय वरद हस्तं

कालचक्र प्रणेतारं च श्री सूर्यनारायणं य एवं वेद स वै ब्राह्मणः

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं

ॐ तत् सवितुः वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्

परोरज सेसावदोम्

ॐ आपः ज्योति रसो अमृतं ब्रह्म भूः भुवः स्वः ॐ

सूर्य आत्मा जगतः तु स्थः च

सूर्यात् वै खल्विमानि भूतानि जायन्ते

सूर्यात् यज्ञाः पर्जन्यः अन्नः आत्मा

नमस्ते आदित्याय

त्वं एव केवलं कर्ता असि

त्वं एव प्रत्यक्षं विष्णुः असि

त्वं एवं प्रत्यक्षं ब्रह्मा असि

त्वं एव प्रत्यक्षं रुद्र असि

त्वं एव प्रत्यक्षं ऋक् असि

त्वं एव प्रत्यक्षं यजुः असि

त्वं एव प्रत्यक्षं साम असि

त्वं एव प्रत्यक्षं अथर्व असि

त्वं एव सर्वं छन्द असि

आदितयाद् वायुः जायते

आदित्याद् भूमिः जायते

आदित्याद् आपः जायन्ते

आदित्याद् ज्योतिः जायते

आदित्याद् व्योम दिशो जायन्ते

आदित्याद् वेदा जायन्ते

आदित्याद् देवा जायन्ते

आदित्यो वा एष एतन् मण्डलं तपति

असाव आदित्यो ब्रह्म

आदित्यो अन्तःकरण मनो बुद्धि चित्त अहंकारः

आदित्यो वै व्यान समान उदान अपान प्राणः

आदित्यो वै श्रोत्र वाक् चक्षुः रसना नासाः

आदित्यो वै वाक् पाणि पाद उपस्थ पायुनि

आदित्यो वै शब्द स्पर्श रूप रस गन्धाः

आदित्यो वै वचन आदान गमन आनन्द विसर्गः

आनन्द मयो ज्ञानमयो विज्ञानमयो आदित्यः

नमो मित्रास भानवे मृत्योः मा पाहि भ्राजिष्णवे विश्व हेतवे नमः

सूर्यो नो दिवः पातु वातो अन्तरिक्षात्

अग्निः न पार्थिवेभ्यः

सूर्यात् भवन्ति भूतानि

सूर्येण पालितानि तु

सूर्ये लयं प्राप्नुवन्ति

यः सूर्यः सोऽहं एव च

चक्षुः नो देवः सविता

चक्षुः न उत पर्वतः

चक्षुः धाता दधातु नः

आदित्याय विद्महे सहस्त्र कराय धीमहि तन्नो सूर्यः प्रचोदयात्

सविता पश्चात् तात

सविता पुरः तात

सविता उत्तरात् तात

सविता अधरात् तात

सविता नः सुवतु सर्व तातिम्

सविता नो रासतां दीर्घमायुः

ॐ इति एक अक्षरं ब्रह्म

घृणिः इति द्वे अक्षरे

सूर्य इति अक्षर द्वयं

आदित्य इति त्रीण्य अक्षराणि

एतद वै सुर्यस्य अष्टाक्षरं मनुं


फलश्रुति

यः सदा हरहः जपति

सो ब्रह्मण्यो ब्राह्मणो भवति

सुर्याभिमुखं जप्त्वा महाव्याधि भयात् प्रमुच्यते

अलक्ष्मीः नश्यति

अभक्ष्य भक्षणात् पूतो भवति

अपेय पानात् पूतो भवति

अगम्य गमनात् पूतो भवति

व्रात्य संभाषणात् पूतो भवति

असत् संभाषणात् पूतो भवति

मध्यान्हे सुर्याभिमुखः पठेत्

सद्यः पन्च महापापात् प्रमुच्यते

सैषा सावित्री विद्यां न किंचित् अपि कस्मै चित् प्रशन्सयेत

य एतां महाभागः प्रातः पठति स भाग्यवान् जायते

पशुं विन्दति

वेदार्थं लभते

त्रिकालं जप्त्वा क्रतु शत फलं प्राप्नोति

यो हस्त आदित्ये जपति स महामृत्युं तरति स महामृत्युं तरति

य एवं वेद

इति उपनिषद

ॐ भद्रं कर्णेभि शृणुयाम देवा:।

भद्रं पश्येम्  अक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।

व्यशेम देवहितं यदायु:।1।


ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।

स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।

स्वस्ति नो बृहस्पति: दधातु ।2।


ॐ शांति:। शांति:।। शांति:।।।


PROCEED TO PURUSHA-SUKTA ABHISHEKA ON VISHNU

gaNapati atharvasheersha - गणपति अथर्वशीर्ष

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.


शान्तिपाठ

ॐ भद्रं कर्णेभि शृणुयाम देवा:।

भद्रं पश्येम्  अक्षभिर्यजत्रा:।।

स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।

व्यशेम देवहितं यदायु:।1।


ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।

स्वस्ति न: पूषा विश्ववेदा:।

स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।

स्वस्ति नो बृहस्पति: दधातु ।2।


ॐ शांति:। शांति:।। शांति:।।।


ॐ नमस्ते गणपतये।

त्वम् एव प्रत्यक्षं तत्वम् असि ।।

त्वम् एव केवलं कर्त्ताऽअसि।

त्वम् एव केवलं धर्ता असि।।

त्वम् एव केवलं हर्ताऽअसि।

त्वम् एव सर्वं खलु इदं  ब्रह्म असि।।

त्वं साक्षात् आत्मा असि नित्यम्।

ऋतं वच्मि।। सत्यं वच्मि।।

अव त्वं मां।। अव वक्तारं।।

अव श्रोतारं। अवदातारं।।

अव धातारम अवानूचानम्  अवशिष्यं।।

अव पश्चातात्।। अव पुरस्तात्।।

अव उत्तरात्तात ।। अव दक्षिणात्तात्।।

अव च उर्ध्वात्तात।। अव अधरात्तात।।

सर्वतो मां पाहिपाहि समंतात्।।3।।


त्वं वाङग्मय: त्वं चिन्मय:।

त्वं आनन्दमयः त्वं ब्रह्ममय:।।

त्वं सच्चिदानंद अद्वितियोऽसि।

त्वं प्रत्यक्षं ब्रह्मासि।

त्वं ज्ञानमयो विज्ञानमयोऽसि।4।

सर्व जगत् इदं त्वत् तो  जायते।

सर्व जगत् इदं त्वत् तः तिष्ठति।

सर्व जगत् इदं त्वयि लयम् इष्यति ।।

सर्व जगत् इदं त्वयि प्रत्येति।।

त्वं भूमि: आपः अनलो अनिलो नभ:।।

त्वं चत्वारि वाक् पदानि।।5।।


त्वं गुण: त्रयातीत: त्वम् अवस्था त्रयातीत:।

त्वं देहत्रयातीत: त्वं कालत्रयातीत:।

त्वं मूलाधार स्थितोऽसि नित्यं।

त्वं शक्ति त्रयात्मक:।।

त्वां योगिनो ध्यायंति नित्यम्।


त्वं ब्रह्मा त्वं विष्णु: त्वं रुद्र: त्वं  इन्द्र: त्वं अग्नि: त्वं वायु: त्वं सूर्य: त्वं चंद्रमा: त्वं  ब्रह्मभूर्भुव: स्वरोम्।।6।।

गणादिं पूर्वम् उच्चार्य वर्णादिं तदनंतरं।।

अनुस्वार: परतर:।। अर्धेन्दुलसितं।।

तारेण ऋद्धं।। एतत्तव मनुस्वरूपं।।

गकार: पूर्व रूपं अकारो मध्यरूपं।

अनुस्वार" शान्त्य रूपं।। बिन्दुरूत्तर रूपं।।

नाद: संधानं।। संहिता संधि: सैषा गणेश विद्या।।

गणक ऋषि: निचृत् गायत्री छंद:।। ग‍णपति देवता।।

ॐ गं गणपतये नम:।।7।।


एकदंताय विद्महे। वक्रतुण्डाय धीमहि तन्नोदंती प्रचोद्यात।।

एकदंत चतुर्हस्तं पाशं अंकुश धारिणम्।।

रदं च वरदं च हस्तै र्विभ्राणं मूषक ध्वजम्।।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।।

रक्त गंधाऽ अनुलिप्त अंगं रक्तपुष्पै सुपूजितम्।।8।।

भक्त अनुकंपिनम्  देवं जगत् कारणम् अच्युतं ।।

आविर्भूतं च सृष्टयादौ प्रकृतै: पुरुषात् परम।।

एवं ध्यायति यो नित्यं स योगी योगिनांवर:।। 9।।


नमो व्रातपतये नमो गणपतये।। नम: प्रमथपतये ।।

नमस्तेऽ अस्तु लंबोदाराय एकदंताय विघ्ननाशिने शिव सुताय।

श्री वरदमूर्तये नम:।।10।।


फलश्रुति

एतद् अर्वशीर्ष योऽधीते।।

स: ब्रह्मभूयाय कल्पते।।

स सर्वत: सुख मेधते

स सर्वविघ्नै न बाध्यते।। 11।।

स पन्च महापापात्  प्रमुच्यते

सायम् अधीयानो दिवसकृतं पापं नाशयति।।

प्रात: अधीयानो रात्रिकृतं पापं नाशयति।।

सायं प्रात: प्रयुंजानो अपाप: उद्भवति ।

सर्वत्राधीयानोऽपविघ्नो भवति।।

धर्मार्थ काममोक्षं च विन्द्यते।।12।।

इदम्  अथर्वशीर्षम्  अशिष्यायन देयम।।

यो यदि मोहात् द्यासति स पापीयान भवति।।

सहस्त्र आवर्तनात् यं यं काममधीते तं तम् अनेन साधयेत।।13 ।।


अनेन गणपतिम् अभिषिं‍चति स वाग्मी भ‍वति।।

चतुर्थ्यां मनः श्रु: जपति स विद्यावान् भवति।।

इति अथर्वण वाक्यं।। ब्रह्म आद्य आचरणं विद्यात

न बिभेती कदाचनेति।।14।।


यो दूर्वांकुरै र्यजति स वैश्रवणोपमो भवति।।

यो लाजैर्यजति स यशोवान भवति।। स: मेधावान भवति।।

यो मोदक सहस्त्रेण यजति।

स वांञ्छित फलम् वाप्नोति।।

य: साज्य समिद्भिः यजति, स सर्वं लभते स सर्वं लभते।।15।।


अष्टो ब्राह्मणां सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति।।

सूर्य गृहे महानद्यां प्रतिभासंनिधौ वा जपत्वा सिद्ध मंत्रो भवति।।

महाविघ्नात्  प्रमुच्यते।। महादोषात् प्रमुच्यते।। महापापात् प्रमुच्यते।

स सर्व विद्भवति स सर्वविद्भवति। य एवं वेद इत्युपनिषद।।16।।


ॐ सहनाववतु सहनोभुनक्तु सहवीर्यं करवावहै
तेजस्विनां अधीतं अस्तु मा विद् विषावहै
ॐ शान्तिः शान्तिः शान्तिः

।। अर्थर्ववैदिय गणपत्युनिषदं समाप्त:।।


PROCEED TO SURYA ATHARVASHEERSHA

Friday, August 25, 2017

Aastika Nirishwarvāda that I adhere to - few notes

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

1.PramaaNas -  three valid pramaaNas - pratyaksha, anumaana and shabda (vedvaakya). both for saamkhya and yoga.

vaisheshika, nyaaya and purva-mimaamsa hold four valid pramaaNas - pratyaksha, anumaana, upamaana, shabda.

vedaanta (notably advaita) hold six valid pramaaNas - pratyaksha, anumaana, upamaana, arthaapatti, anupalabdhi, shabda

All these six darshanas hold shabda aka shruti as a valid pramaaNa and consider it apaurusheya. Hence these six darshanas are called "aastika darshanas".

chaarvaka considers only pratyaksha as valid pramaaNa. naastika darshans (buddha and jaina) do not consider shabda (shruti) as a valid pramaaNa. they tried to build a parallel "shruti" wherein shabda means their shruti and not "the shruti". But it still was limited by being man-made.

read this link for more detailed exposition -
http://kalchiron.blogspot.in/2010/09/aastikas-and-naastikas-system-of.html

2, about Eeshvara - for saamkhya, yoga, purva-mimaamsa, nyaaya, vaisheshika - karma rules supreme. when all sanchita karma is exhausted, the seed of ahamkaara vanishes and kaivalya or moksha is attained spontaneously with termination of birth-death cycles. There is no need of an "external eeshvara" who is a "mukunda" (giver of moksha). various devi-devataas (kuladevata, ishTadevata, graama-devata et al) are to be worshipped as per needs or kulaachaara or time. With saadhana or aashirvaada of these devataas, some sequence of impending karma-phala can be altered (that is some good karma-phala which was due later can be brought ahead and current bad-karmaphala can be pushed ahead in time), but NO ONE has power to be above karma and absolve a karma-phala. Hence "eeshvara" is "not needed". Everyone HAS TO go through the phala of their karma, no matter what.

3. creation - no reference to eeshvara creating the existence. Existence Comes from prakruti who after coupling with purusha gives rise to mahat and in turn to ahamkaara that in turn gives rise to three guNas which in turn give rise to maanas, 5 karmendriyas, 5 gnaanendriyas, tanmaatra (5 senses and their analogous 5 mahabhutas) - thus srishti comes into existence. Why purusha coupled with prakruti in first place - don't know. vedaanta says it is leela of eeshvara. But that explanation not possible in this premise. it happens spontaneously.

Sunday, April 09, 2017

Maharashtrian water scarcity - political fall out.

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

One short primer on issues of MH - the biggest issue here in MH is NOT hindutva. "THE" biggest issue here is water scarcity. Now aamir khan's "paaNi foundation", Nana Patekar-Makarand Anaspure's "Naam foundation", Sri Sri's AOL have done terrific job at water conservation at village level in their capacity. Akshay Kumar is yet another bollywood bigwig who puts in money here.

The biggest star here is Jalyukt Shivaar Yojana (which is frought with shit loads of scams - mostly pertaining to haphazard digging by sand-mafia) which has made tremendous difference. For past 4-5 years, there was continuous drought in most of MH. The numbers of IDPs within MH who came to puNe-Mum is mind-boggling. It got worse since 2014 (until the monsoon of 2016 which was finally a good one after a long wait). The works done in 2014-2015 has ensured that there is lot of water still available to use and tankers have decreased drastically. The second biggest development that has happened sugar-mafia. They have been forced to install water-circulation and reuse units by current govt (includes sugar factories of BJP's sugar barons as well). This is biggest reason for mass-inflow of ppl from NCP to BJP. 

One case-study. A typical sugar factory (owned by a sugar baron - read by sugar lobby article to understand how it works) takes up around 22-25 lakh litres of water per day discharge 16 lakh litres of stillage (post biogas production spent-wash). Imagine the scale of criminal wastage. There are plenty of such sugar factories in Maharashtra. It is due to this reason (and many reasons in every district) the people downstream of godavari in Mararthwada did not get enough water. The very fact that almost all these sugar barons are now scrambling to instal capabilities to ensure "zero-discharge" is THE biggest achievement of this state-govt in my opinion. 

 Our people (our = sangh parivar and other like-minded folks) are collaborating with the above mentioned players and NGOs. That is one the problem which may arise in future times. But right now the situation is so desperate that people do not want to see who is helping them. I am glad to report sangh is participating in all this to ensure our visibility in all this. 

Hindutva is operating system of marathi social mind. It is better if it stays as a wall-paper (i.e. on the backdrop). If it starts popping up again and again, I fear people will get bored (like they are getting bored of shivsena - they have overplayed their hindutva-marathi card).