Monday, June 11, 2018

राम रक्षा स्तोत्र Ram Raksha Stotra

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

To be Chanted every evening during the time of evening deepa-prajvalana after evening Sandhya.

It is not possible for many (me included). I chant it while returning home, while driving car, whenever convenient.

It is extremely important to chant this stotra slowly. It has multiple tongue-twisters.  I have highlighted few of them with yellow colour. It is essential to negotiate these points slowly and surely. It helps those who have some problems pertaining to speech. Speech problems occur primarily due to differential speeds of operation of mind and tongue. When tongue cannot cope with speed of thoughts, speech becomes blurred. It is therefore essential to stabilize the mind.

Raam-raksha steadies the mind when chanted in proper manner and diction and poise. The poise of mind is the greatest fruit of chanting this stotra..

Jay Shri Raam.

॥ श्रीरामरक्षास्तोत्रम्‌ ॥

श्री गणेशाय नम: ।
अस्य श्रीराम रक्षा स्तोत्र मन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्री सीता रामचंद्रो देवता ।
अनुष्टुप्‌ छन्द: ।
सीता शक्ति: ।
श्रीमत् हनुमान्‌ कीलकम्‌ ।
श्री सीता रामचंद्र प्रीति अर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेत् आजानुबाहुं धृतशरधनुषं बद्ध पद्मासन स्थं ।

पीतं वासोवसानं नवकमलदल स्पर्धिनेत्रं प्रसन्नम्‌ ॥

वामाङ्ग आरूढसीता मुखकमलम् इलं लोचनं नीरदाभं ।

नाना अलङ्‌कार दीप्तं दधतमुरुजटा मण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम्‌ ।
एक एकम्  अक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम्‌ ।
जानकी लक्ष्मणॊ पेतं जटामुकुट मण्डितम्‌ ॥२॥

सासि तूणधनुर्बाण पाणिं नक्तं चरान्तकम्‌ ।
स्वलीलया जगत् त्रातुम्  आविर्भूतम् अजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघव: पातु भालं दशरथ आत्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रि वत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेश कार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणः  छद्म चारिण: ।
न द्र्ष्टुम् अपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगत् जैत्रेक मन्त्रेण रामनाम न अभिरक्षितम्‌ ।
य: कण्ठे धारयेत् तस्य करस्था: सर्व सिद्धयः : ॥१३॥

वज्रपंजरनाम्  इदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामः त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीक विशालाक्षौ चीर कृष्णाजिन अम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्त सज्ज धनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ
रक्षणाय मम रामलक्ष्मणा: अग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाण धरो युवा ।
गच्छन्‌ मनोरथोS अस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्त वेद्यो यज्ञेश: पुराण पुरुषोत्तम: ।
जानकी वल्लभ: श्रीमान् अप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।
अश्वमेध अधिकं  पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादल श्यामं पद्म अक्षं पीत वाससम्‌ ।
स्तुवन्ति नामभि: दिव्यै न ते संसारिणो नर: ॥२५॥

रामं लक्ष्मणम्  पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।
काकुत्स्थं करुणा अर्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌
राजेन्द्रं सत्यसंधं दशरथ तनयं श्यामलं शान्तमूर्तिम्‌ ।
वन्दे लोक अभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रण रङ्‌ग धीरं राजीवनेत्रं रघुवंशनाथम्‌ ।
कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।
तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥

॥ श्री सीतारामचंद्रार्पणमस्तु ॥

जले रक्षतु वराह

स्थले रक्षतु वामनः

अटव्यां नरसिंहः च

सर्व त पर्तु केशवः

अच्युत अनन्त गोविन्दं

नाम उच्चारिण भेषजं

नश्यंतु सकला बाधा

सत्यं सत्यं वदाम्यहं

अच्युतं केशवं राम नारायणं

कृष्ण दामोदरं वासुदेवं हरिं

श्रीधरं माधवं गोपिका-वल्लभं

जानकी नायकं रामचन्द्रं भजेत्

हरे राम हरे राम राम राम हरे हरे

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे


श्री रामचन्द्र अर्पणम् अस्तु....


PROCEED TO HANUMAN STOTRA

No comments: